वांछित मन्त्र चुनें

अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति प॒श्चात् । य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ ta emi tanvā purastād viśve devā abhi mā yanti paścāt | yadā mahyaṁ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi ||

पद पाठ

अ॒यम् । ते॒ । ए॒मि॒ । त॒न्वा॑ । पु॒रस्ता॑त् । विश्वे॑ । दे॒वाः । अ॒भि । मा॒ । य॒न्ति॒ । प॒श्चात् । य॒दा । मह्य॑म् । दीध॑रः । भा॒गम् । इ॒न्द्र॒ । आत् । इत् । मया॑ । कृ॒ण॒वः॒ । वी॒र्या॑णि ॥ ८.१००.१

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:1 | अष्टक:6» अध्याय:7» वर्ग:4» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:1